|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.70. अध्यायः 070
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण चक्षुष्मत्प्रशंसनपूर्वकं श्रीकृष्णनुणानुवर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-70-0x(3612)(34315)
चक्षुष्मतां वै स्पृहयामि सञ्जय
द्रक्ष्यन्ति ये वासुदेवं समीपे।
विभ्राजमानं वपुषा परेण
प्रकाशयन्तं प्रदिशो दिशश्च ॥ 5-70-1(34316)
ईरयन्तं भारतीं भारताना-
मभ्यर्चनीयां शङ्करीं सृञ्जयानाम्।
बुभूषद्भिर्गर्हणीयामनिन्द्यां
परासूनामग्रहणीयरूपाम् ॥ 5-70-2(34317)
समुद्यन्तं सात्वतमेकवीरं
प्रणेतारमृषभं यादवानाम्।
निहन्तारं क्षोभणं शात्रवाणां
मुञ्चन्तं च द्विषतां वै यशांसि ॥ 5-70-3(34318)
द्रष्टारो हि कुरवस्तं समेता
महात्मानं शब्रुहणं वरेण्यम् ।
ब्रुवन्तं वाचमनृशंसरूपां
वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥ 5-70-4(34319)
ऋषिं सनातनतभं विपश्चितं
वाचःसमुद्रं कलशं यतीनाम्।
अरिष्टनेमिं गरुडं सुपर्णं
हरिं प्रजानां भुवनस्य धाम ॥ 5-70-5(34320)
सहस्रशीर्षं पुरुषं पुराण-
मनादिमध्यान्तमनन्तकीर्तिम्।
शुक्रस्य धातारमजं च नित्यं
परं परेषां शरणं प्रपद्ये ॥ 5-70-6(34321)
त्रैलोक्यनिर्माणकरं जनित्रं
देवासुराणामथ नागरक्षसाम्।
नराधिपानां विदुषां प्रधान-
मिन्द्रानुजं तं शरणं प्रपद्ये ॥ ॥ 5-70-7(34322)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्ततितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-70-1 चक्षुष्मतां भाग्याय स्पृहयामि ॥ 5-70-5 अरिष्टः अहिंसितः नेमिः पादो यस्य सः अरिष्टनेमिः ॥ 5-70-7 निर्माणं रचना। जनित्रं जनयितारम् ॥ 5-70-

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|